अस्माकं येयं सनातनी संस्कृतिः सा सर्वापि संस्कृतमाश्रिता वर्तते । अत एव वचनमिदं प्रसिद्धम् - संस्कृतिः संस्कृताश्रिता ।। यदि संस्कृतं न स्यात्तर्हि तन्निबद्धरामायणादीनाम् अबोधात् संस्कृतेः दुर्बोधत्वं नूनम् । तादृशस्य संस्कृतस्य तथा तन्निबद्धसंस्कृतिज्ञापकानां च शास्त्राणां बोधनार्थं क्रिस्तशके १९०४ तमे वर्षे उडुपिप्रदेशे निर्मितोऽयम् एस्.एम्.एस्.पि. संस्कृतमहाविद्यालयः । अयं राष्ट्रप्रसिद्धेषु संस्कृतमहाविद्यालयेषु अन्यतमः । अयं च महाविद्यालयः इहत्यैः तत्रभवद्भिरष्टमठाधीशैः स्थापितः सन् श्रीमन्मध्वसिद्धान्तप्रबोधकसभया नियन्त्र्यते, यस्यां सभायां पर्यायप्राप्तकृष्णपूजादीक्षा मठाधीशा अध्यक्षा सन्ति ।
महाविद्यालयोऽयम् अनुभूतशतमानोत्सवेषु महाविद्यालयेष्वेकतमः । निर्मितस्यास्य षोडशोत्तरशततमं वर्षं प्रवर्तते । समुद्रतीरगतेषु उडुपि-दक्षिणकन्नडादिषु मण्डलेषु एवं शास्त्रमात्रबोधनपरो महाविद्यालयोऽयमेक एवास्ति, नान्यः । नात्र कोऽपि शिक्षणस्य शुल्को वर्तते छात्त्राणां प्रत्युत निश्शुल्का वसतिः, निश्शुल्का च भोजनव्यवस्था । सा चात्रत्यस्य श्रीकृष्णमठस्य सहकारात् ।
उअयमुडुपिप्रदेश आचार्यमध्वस्येव तत्कृतस्य द्वैतवेदान्तस्यापि जन्मभूमिः । तं च वेदान्तं बोधयत्सु कतिपयेष्वेव महाविद्यलयेष्वयमपि अन्यतम इति विशेषः ।
अत्र येऽध्ययनं कुर्वन्ति ते छात्त्राः नवदेहलीस्थराष्ट्रियसंस्कृतसंस्थानप्रमुखाभिः नैकाभिः संस्थाभिः आयोज्यमानासु राष्ट्रस्तरासु स्पर्धास्वपि भागं गृह्णन्तो जयं प्राप्नुवन्ति । कृताध्ययनेषु च केचिच्छात्त्राः धार्मिकसामाजिकादिषु बहुषु क्षेत्रेषु विख्याताः सन्ति, केचिच्च राज्यादिप्रसिद्धासु महाविद्यालय-विश्वविद्यालयादिषु शैक्षणिकसंस्थासु बोधकाः सन्तः कार्यं कुर्वन्ति । बेङ्गळूरुनगरगतेन कर्णाटकसंस्कृतविश्वविद्यालयेन मानितेऽस्मिन् यथैतत्प्रदेशीयाः छात्त्रा अध्ययनं कुर्वन्ति तथा केरळ-ओडिशा-आन्धप्रदेशादिराज्यान्तरीया अपीति विशेषः ।
महाविद्यालयेऽस्मिन् साहित्यं यथाध्याप्यते तथा तदुत्तरभावीनि अलङ्गारो ज्यौतिषं न्यायो द्वैतवेदान्तश्चेति चत्वार्यपि शास्त्राण्यपि । तत्र साहित्यस्य परीक्षामुत्तीर्णेभ्यः बेङ्गळूरुगतेन संस्कृतनिर्देशनालयेन प्रमाणपत्त्रं प्रदीयते, शास्त्राणामुत्तीर्णेभ्यस्तु प्रागुक्तसंस्कृतविश्वविद्यालयेन ।
भवनं चास्य महाविद्यालयस्य क्रिस्तशके १९५०तमे वर्षे निर्मितमिति हेतोः महतः कालस्य अतिक्रमणेन जातं शैथिल्यं मनसिकृत्य पूर्वस्मिन् वर्षे सार्धकोटित्रयमितेन धनेन नवत्वं कृतम् । प्रसङ्गे तस्मिन् सङ्गणनप्रकोष्ठस्य निर्माणेन छात्त्रा इहाद्य शास्त्रस्य ज्ञानेन सह सङ्गणनस्यापि ज्ञानं प्राप्तुं शक्नुवन्ति । अस्माकं महाविद्यालये महान् कश्चित् ग्रन्थालयो वर्तते । एतेनात्र अध्ययनं कुर्वतां छात्त्राणामतीव आनुकूल्यं सम्भवति । किञ्च प्रतिपक्षम् अष्टम्यां या रुचिरभारतीनाम्नी सभा भवति तस्याः भाषणादौ विषये छात्त्राः स्वकौशलं प्रदर्शयितुं शक्नुवन्ति । कर्णाटके विशेषतो विख्यातोऽयं महाविद्यालयः उडुपि-दक्षिणकन्नडादिषु समुद्रतीरगतेषु मण्डलेषु अविच्छेदेन संस्कृतस्य रक्षणं विदधाति । अत एवात्र संस्कृतं संस्कृतिश्च कथञ्चिज्जीवति । तत्र कारणमयं महाविद्यालयोऽपीति विषये मन्ये नास्ति कस्यापि विप्रतिपत्तिः । तस्मादेवंविधस्य महाविद्यालयस्य संरक्षणं पोषणं च सनातनसंस्कृतिसंवर्धनं कामयमानानां सर्वेषां जनानां सङ्घानां च परमं कर्तव्यम् ।
एवं सर्वसौकर्यसमन्वितं अस्मन्महाविद्यालयं प्रति हे छात्त्राः! समायान्तु, संस्कृतं तन्निबद्धं च शास्त्रमधीत्य आस्माकीनां संस्कृतिं रक्षन्तु । इदं वः प्रीतिपुरस्सरं स्वागतम् ।