२०२२-२३ शैक्षणिकवर्षे नूतनकक्ष्याप्रवेशार्थमत्र नोदनं क्रियताम्

अस्माकं श्रीमन्मध्वसिद्धान्तप्रबोधकाध्ययनकेन्द्रं समागच्छतां स्वागतम्


लक्ष्यम् (Vision)

=>माध्वतत्त्वस्य प्राधान्येन बोधनं तथा प्रवचनादिना तस्य प्रसारणम् ।

=>ज्यौतिषालङ्कारादीनां शास्त्राणां संरक्षणम् ।

=>द्वैतवेदान्तादिसम्बद्धानि यानि ताडपत्त्राणि, हस्तलिखितानि, मुद्रितपूर्वाः प्राचीना ग्रन्थाः, आधुनिकाश्च मुद्रिता अमुद्रिताश्च, प्रबन्धा इत्येतेषां संगृहणम्, संरक्षणं तथा मुद्रणम्

=>समाजस्य संस्कृताध्ययनाय प्रचोदनम् तथा वेदोपनिषदादीनामध्ययने तदर्थस्यावगमने च उत्साहोत्पादनम् ।

लक्ष्यकल्पम् (Mission)

=>संस्कृतबोधनस्य व्यवस्थापनम् ।

=>भारतीयसंस्कृतेः पोषकानां नाट्यसङ्गीतादिसम्बद्धानां कार्यक्रमाणाम् आयोजनम् ।

=>विद्यार्थिनां नैतिकमौल्यादिषु विषये शिक्षणम् ।

=>साहित्ये तत्त्वशास्त्रे च प्रतिपादितानां धर्माणाम् आधुनिके समाजे प्रसारणम् ।





किं कारणमयं महाविद्यालयो निर्वरणीयः?

अस्मिन् महाविद्यालये इमानि तावदुपकरणानि सन्ति -

निश्शुल्कं शिक्षणम्

अत्र सर्वेषामपि छात्त्राणां शिक्षणं निश्शुल्कं प्रदीयते ।

निश्शुल्को विद्यार्थिनिलयः

दूरादागच्छतां सर्वेषामपि छात्त्राणामवरतो यावद्व्यवस्था काङ्क्षिता तदुपेतो विद्यार्थिनिलयो वर्तते ।

निश्शुल्का भोजनव्यवस्था

अत्राधीयमानां सर्वेषां छात्त्राणां श्रीकृष्णमठेन द्वारेण निश्शुल्का भोजनव्यवस्था वर्तते ।

निश्शुल्को ग्रन्थालयोपयोगः

महाविद्यालयेऽस्मिन् महान् ग्रन्थालयो वर्तते यत्र वेदान्तज्यौतिषादिशास्त्रसम्बद्धा त्रिशतोत्तरदशसहस्राधिकाः (१०३०० तोऽप्यधिकाः) ग्रन्थाः सन्ति, नियतकालाः बह्व्यः वृत्तपत्त्रिकाश्च, यत्सर्वं छात्त्रा उपयोक्तुमर्हन्ति ।

निश्शुल्कं सङ्गणनशिक्षणम्

अत्र प्रायेण सर्वव्यवस्थः तादृशः सङ्गणनप्रकोष्ठो वर्तते, यत्र पञ्चदश सङ्गणकानि, मुद्रकाः, छायाग्रहणी च विद्यते । सवेगं चान्तर्जालमप्यत्र सुलभम् ।


शिक्षणविषयः (कोर्स्)

साहित्यम्

वर्षद्वयावधिकम्,

इदं च पि.यु.सि.कक्ष्यायाः समानं वर्तते ।

शास्त्रीकक्ष्या

वर्षत्रयावधिकी

कक्ष्येयं बि.ए.कक्ष्यायाः समाना वर्तते ।

आचार्यकक्ष्या

वर्षद्वयावधिकी

कक्ष्येयं एम्.ए.कक्ष्यायाः समाना वर्तते ।