अस्माकं श्रीमन्मध्वसिद्धान्तप्रबोधकाध्ययनकेन्द्रं समागच्छतां स्वागतम्


महाविद्यालयस्य ऐतिह्यम्


शालीवाहनशके सुखोदयमिते क्रोध्यब्दके श्रावणे
पक्षे श्यामलके द्वितीयदिवसे शालेयमाविष्कृता ।
श्रीमन्मध्वमुनीन्द्रवंशतिलकैरष्टाभिरिष्टप्रदै-
दिक्पालैरिव भव्यगेयचरितैः संवर्धिता राजताम् ॥

श्रीश्रीमन्मध्वसिद्धान्तप्रबॊधिन्यमृतप्रदा ।
कामधेनुर्बुधाराध्या राजतां राजतासने ॥

त्रिसप्तकृत्वो भूमिं परिभ्रम्य, मत्तान् भूभुजान् निहत्य, स्वायत्तां सकलामपि मेदिनीं ब्राह्मणेभ्यः प्रदाय, प्रदत्तायां च मेदिन्यां वासो दत्तापहारदोषस्य समानो भवतीति मन्यमानो भगवान् भार्गवरामो निकटं महेन्द्रपर्वतमधिरुह्य प्रत्यङ्मुखः सन् समुद्रे स्वकुठारं तथा चिक्षेप येन समुद्रोऽपि तदाशयमनुमन्यमानः तत्पतनस्थलं यावत् पृष्ठतश्चचाल । एतेन नासिकस्य आ त्र्यम्बकेश्वरात् आ च कन्याकुमार्याः तादृशं किञ्चिद्रमणीयं भूखण्डम् आविर्बभूव, यच्च प्रान्तगतत्वात् भारतमातुः शाट्यञ्चलमिव विराजते । एतदेव परशुरामक्षेत्रम् ।

रामक्षेत्रे इवास्मिन्नपि क्षेत्रे बह्व्यो नद्यः प्रवहन्ति, बह्वः पर्वताः सन्ति, बहुविधं सस्यजातं शोभते, नानाविधानि च क्षेत्राणि वर्तन्ते । तेष्वन्यतमं विलसति पावनमिदं रजतपीठम् । ‘शिवळ्ळि’ इति जनपदप्रसिद्धं नामास्य । क्षेत्रस्यास्य योऽधिपतिः श्रीमदनन्तेश्वरः तस्य पीठं रजतमयमिति हेतोः तन्नामेति जनाः कथयन्ति । अस्मिन्नेव प्रदेशे तपसा सन्तुष्टः शिवः प्रत्यक्षीभूय चन्द्रमनुजग्राहेति स चन्द्रमौलीश्वरः सन्नत्रावतिष्टते, येन प्रदेशस्यास्य उडुपीति नामापि सम्पन्नमिति ऐतिह्यम् । अनेनास्य प्रदेशस्य माहात्म्यमतितरां प्रावर्धत । एवंविधे उडुपिनगरे आचार्यमध्वोपासितः श्रीकृष्ण इहावस्थितः सन्नस्य प्रदेशस्य तन्माहात्म्यं द्विगुणीचकार । सर्वमिदमिदंदेशस्य भागधेयम् । अद्यत्वे प्रदेशस्यास्य उडुपीति नामैव प्रसिद्धम् । पुराणेऽपि प्रसिद्धमिदं स्थलं मोक्षदायकेषु सप्तसु क्षेत्रेषु अन्यतमम् -

रौप्यपीठं कुमाराद्रिः कुम्भासिश्च ध्वजेश्वरः ।
क्रोडगोकर्णमूकाम्बा सप्तैते मोक्षदायकाः ॥

एवं प्रसिद्धे क्षेत्रे क्रिस्तशके त्रयोदशे शतके द्वैतमतस्य प्रवर्तकाः सन्तः मध्वाचार्या जनिमलभन्त । गुरुरेषाम् अच्युतप्रज्ञाचार्यः । रूपान्तरेण अवतीर्णो वायुदेव इति प्रथिता इमे आचार्या निकटं पाजकक्षेत्रं स्वजन्मना विख्यापयन्तो वेदादेः समस्तवाक्यजातस्य ‘हरावेव तात्पर्यम्, जगदिदं सत्यम्, नीचोच्चभावं गताः सर्वेऽपि जीवा मिथो भिन्ना प्रतिबिम्बवत् हरावधीनाश्च, स्वरूपानन्दानुभूतिरेव मोक्षः, तत्प्राप्तौ निर्मला भक्तिरेव साधनम्, प्रमेयावगतौ प्रत्यक्षमनुमानम् आगमश्चेति त्रयमेव प्रमाणम्, जीवब्रह्मणोर्भेद एव परमार्थः’ इति प्रतिपाद्य द्वैतसिद्धान्तं प्रतिष्ठापयामासुः । सिद्धान्तश्चायं श्लोकेनानेन अवगम्यते -

श्रीमन्मध्वमते हरिः परतरः सत्यं जगत्तत्त्वतो

भिन्ना जीवगणा हरेरनुचरा नीचोच्चभावं गताः ।
मुक्तिर्नैजसुखानुभूतिरमला भक्तिश्च तत्साधनं
ह्यक्षादित्रितयं प्रमाणमखिलाम्नायैकवेद्यो हरिः ॥

स्वाराध्यस्य भगवतः कृष्णस्य आराधनाय मठमेकं निर्माय तदाराधनेन सह तत्त्वप्रसारार्थम् अष्टौ शिष्यान् परिजगृहुः । एत एव यतयः अष्टानां मठानां मूलायमानाः सन्ति । ततो जातायां तत्तन्मठीयपरम्परायाम् आविर्भूता बहवो यतयः स्वतपोविशेषेण क्षेत्रमिदमतितरां वर्धयामासुः । स्वपूर्वजारब्धां परम्परामनुसरन्तः एते यतयः संस्कृतस्य तन्निबद्धानां च शास्त्राणां संरक्षणे महान्तं श्रमं कृतवन्तः । अस्यामेव परम्परायां समायाता अन्ये केचिद्यतयः शास्त्रप्रवचनकेन्द्रायमाने श्रीमदनन्तेश्वरदेवालये शालिवाहनशके १८२७ तमे संवत्सरे (क्रि.श.१९०४) क्रोधिनामके संवत्सरे श्रावणकृष्णे प्रतिपदि श्रीराघवेन्द्रस्वामिपादानां जन्मदिने श्रीमन्मध्वसिद्धान्तप्रबोधिनी संस्कृतपाठशाला इत्यभिधीयमानमिमं महाविद्यालयं निर्मापयामासुः ।

अस्मन्महाविद्यालयस्य स्थापका मठाधीशाः तदानीन्तनास्तावदिमे सन्ति -

१. श्रीसुधीन्द्रतीर्थश्रीपादाः श्रीपुत्तिकामठाधीशाः
२. श्रीविबुधप्रियतीर्थश्रीपादाः श्रेमददमारुमठाधीशाः
३. श्रीविद्यापूर्णतीर्थश्रीपादाः श्रीकृष्णापुरमठाधीशाः
४. श्रीरघुप्रियतीर्थश्रीपादाः श्रीपलिमारुमठाधीशाः
५. श्रीविश्वज्ञतीर्थश्रीपादाः श्रीपेजावरमठाधीशाः
६. श्रीलक्ष्मीसमुद्रतीर्थश्रीपादाः श्रीशीरूरुमठाधीशाः
७. श्रीविश्वेन्द्रतीर्थश्रीपादाः श्रीसोदामठाधीशाः
८. श्रीविद्यासमुद्रतीर्थश्रीपादाः श्रीकाणूरुमठाधीशाः

तदवधि मुख्योपाध्यायनेतृकतया प्रवर्तमानेयं पाठशाला क्रिस्तशके १९१९ तमे वर्षे मद्रपुरीविश्वविद्यालयस्य मान्यतामेत्य महापाठशालेति स्थानमवाप । विश्वविद्यालयस्य तदानीन्तननियमानुसारेण प्राचार्यस्य कस्यचन नियुक्तेः अवश्यम्भावित्वात् शासनसमित्या श्रीमान् मडिकेरिदासप्पय्यः निर्विवादं प्रथमप्राचार्यत्वेन निर्णीतः ।

वेदशास्त्रादीनामध्ययनाध्यापनकेन्द्रस्थानमयं महाविद्यालय आदौ श्रीमदनन्तेश्वरदेवालये जातोऽपि छात्त्रसंख्यायाः क्रमिकात् वर्धनात् श्रीचन्द्रमौलीश्वरदेवालयमपि व्याप्य ततः श्रीमददमारुमठाधीनं कडेकोप्पलमठं प्रति उपगतः । ततो दूरादपि प्रदेशात् यदा छात्त्रा बहव आयान्तुमारभन्त तदा महाविद्यालयस्यास्य स्वकीयं किञ्चिद्भवनमावश्यकमिति विचारः प्रावर्तत । विषयमिमं ज्ञात्वा मद्रासप्रान्ते विख्यातः संस्कृताभिमानी उडुपिमूलो डा. यु.रामरावः प्रदेशेऽस्मिन् एकरेमितमिमं प्रदेशं सदानपत्त्रं समर्पयामास । एतेन क्रि.श. १९५२ तमे वर्षे महाविद्यायस्य भवनमिदमुत्तुङ्गं नयनमनोहरं च सत्तामलभत ।

यद्यपि भवननिर्माणे तदानीन्तानाः सर्वेऽपि यतयः कारणं तथापि कालोचितनिर्णये समर्था अनुरक्तलोकाः श्रीमददमारुमठाधीशाः तत्रभवन्तः श्रीविबुधमान्यतीर्थश्रीचरणाः प्रधानं कारणमित्यत्र मन्ये न कस्यापि विवादः । भवनस्यास्य निर्माणार्थं धनस्य सङ्ग्रहः प्रवर्तते स्म तदैव ते सर्वेषां दौर्भाग्यात् वृन्दावनं प्रविष्टाः । तस्माच्छिष्टं कार्यं श्रीपलिमारुमठाधीशैः श्रीरघुमान्यतीर्थश्रीपादैः निरौह्यत । निर्माणकार्यप्रमुखं तन्त्रज्ञं चिरकालस्थायिनीं भूमिकामभिधाय धनं सङ्गृह्णन्तस्ते विधिसङ्कल्पानुसारेण वृन्दावनं प्राविशन् । एवं कार्ये अर्धावशिष्टे तच्छिष्यभूतैः श्रीमदमारुमठाधीशैः श्रीविबुधेशतीर्थश्रीचरणैः क्रिस्तशके १९५१ तमे वर्षे भवननिर्माणकार्यमिदं सर्वथा पूर्णताम् अनैषुः ।

सोऽयं महाविद्यालयः क्रिस्तशके १९५१ तमे वर्षे जूनमासे चतुर्दशे दिनाङ्के (14.6.1951) बोम्बायिप्रान्तस्य मुख्यमन्त्रिणा माननीयेन श्रीमता बि.जि.खेर्-महाभागेन उद्घाटितः । व्यतीतसप्ततिवर्षात्मककाले तस्मिन् भवने सम्प्रति बोधनकुशलानां विदुषां शास्त्रजातस्य अध्ययनाध्यापनपरम्परा निर्विघ्नं प्रवर्तते ।

अत्राधीतिषु सहस्राधिकेषु छात्त्रेषु कतिपये मठाधीशाः, कतिपये लेखकाः, कतिपये विमर्शकाः, कतिपये प्रवचनप्रवीणाः, कतिपये ज्यौतिषिकाः, कतिपये पुरोधसः, कतिपये धार्मिकक्षेत्रे नेतारः, कतिपये च शिक्षकाः सन्तः समाजे मान्यतामवाप्य देशे विदेशे च प्रख्याताः सन्तीति महन्नः प्रमोदस्थानम् । तेषु विरक्तिमार्गमाश्रित्य यतयः सन्तः स्वजीवनं धन्यं कृतवन्तो महनीयाश्छात्त्रास्तावदमी भवन्ति -

१. श्रीविद्यामान्यश्रीपादाः श्रीकृष्णापुरमठः
२. श्री विद्यामान्यश्रीपादाः श्रीपलिमारुमठः भण्डारकेरिमठश्च
३. श्रीविद्याधीशतीर्थश्रीपादाः श्रीपलिमारुमठः
४. श्रीविद्यावारिनिधितीर्थश्रीपादाः श्रीकाणूरुमठः
५. श्रीविद्यावल्लभतीर्थश्रीपादाः श्रीकाणूरुमठः
६. श्रीविद्येशतीर्थश्रीपादाः श्रीभण्डारकेरिमठः
७. श्रीविश्वप्रसन्नतीर्थश्रीपादाः श्रीपेजावरमठः
८. श्रीसत्यप्रमोदतीर्थश्रीपादाः श्रीमदुत्तरादिमठः
९. श्रीशङ्करभारतीतीर्थश्रीपादाः श्रीयडतोरेमठः

अन्ये च शिरूरुमठाधीशाः श्रीलक्ष्मीन्द्रश्रीपादाः, श्रीमददमारुमठाधीशाः श्रीविबुधमान्यश्रीपादाः, श्रीविबुधेशतीर्थश्रीपादाः, श्रीपेजावरमठाधीशाः श्रीविश्वेशतीर्थश्रीपादाः तथा श्रीमददमारुमठाधीशाः श्रीविश्वप्रियतीर्थश्रीपादाश्चेति कतिपये यतयो महाविद्यालये बोधनकार्येण अस्मान् अन्वगृह्णन्निति विशेषः ।

अस्मिन् महविद्यालये प्राचार्यत्वेन कृतकर्माणस्तावत् इमे भवन्ति -

१. श्रीमान् मडिकेरि दासप्पय्यः १९२१-२२
२. श्रीमान् उडुपी वेङ्कटराव् १९२२-२४
३. श्रीमान् पि.हनुमन्तराव् १९२४-२९
४. श्रीमान् एम्. रामचन्द्रराव् १९३०-४९
५. श्रीमान् पडुमन्नूरुनारायणाचार्यः १९४९-५०
६. डा.बि.एन्.के. शर्मा १९४९-५०
७. श्रीमान् कौलगिशेषाचार्यः १९५१-६२
८. श्रीमान् नरसिंह उपाध्यायः १९६२-६८
९. श्रीमान् हरिदास उपाध्यायः १९६८-८४
१०. विद्वान् पि. लक्ष्मीनारायणशर्मा १९८४-०२
११. डा. एच्.के.सुरेशाचार्यः २००२-१८
१२. प्रो.एन्. लक्ष्मीनारायणभट्टः २०१८-२१

अस्मिन् समुद्ररीरे पुरा कासरगोडुमण्डले नीर्चालुप्रदेशे महाजनसंस्कृतमहाविद्यालयः, कार्कळप्रदेशे श्रीभुवनेन्द्रसंश्कृतमहाविद्यालयः, अस्मन्महाविद्यालयश्चेति त्रयो संस्कृताध्ययनकेन्द्रत्वेन विख्यातिं प्राप्ता आसन् । तत्र कालस्य माहात्म्यात् अन्यौ द्वौ महाविद्यालयौ आधुनिकशिक्षणस्य केन्द्रत्वेन परिणतौ । अस्माकं महाविद्यालयस्तु भगवदनुग्रहेण अष्टमठाधीशानां पोषणेन संस्कृताभिमानिनां च शुभाशंसनेन क्रिस्तशके १९८२ तमे वर्षे रत्नमहोत्सवम्, २००४ तमे वर्षे च शतमानोत्सवमवाप्य द्वितीयशतमानोत्सवस्य अभिमुखः सन् प्रवर्धते । यश्च संस्कृतं बहुमन्यमानानां सर्वेषां जनानां सन्तोषप्रदो विषयः । अद्य तु अस्य विश्वविद्यालयस्य आदेशेन श्रीमन्मध्वसिद्धान्तप्रबोधकाध्ययनकेन्द्रम् इति नामान्तरमपि प्राप्तम् ।

अत्र महाविद्यालये द्वैतवेदान्तः, नवीनन्यायः, ज्यौतिषम्, अलङ्कारश्चेति चत्वारि शास्त्राणि प्राधान्येन बोध्यमानानि सन्ति । तत्र प्रत्येकमपि शास्त्रे बि.ए.समाना वर्षत्रयावधिकी शास्त्रिकक्ष्या, एम्.ए.समाना वर्षद्वयावधिकी आचार्यकक्ष्या, पि.यु.सि.समाना वर्षद्वयावधिकी साहित्यकक्ष्या च विद्यते ।