अस्माकं श्रीमन्मध्वसिद्धान्तप्रबोधकाध्ययनकेन्द्रं समागच्छतां स्वागतम्


राष्ट्रियसेवायोजना


कर्णाटकसंस्कृतविश्वविद्यालयेन यु.जि.सि.नियमानुसारेण स्वायत्तेषु सर्वेष्वपि महाविद्यालयेषु राष्ट्रियसेवायोजनायाः (NSS) कश्चित्घटकः स्थापनीय इत्यादिष्टम् । तदनुसारेण २०१४ तमे वर्षे दशम्बरमासे एकोनविंशे दिनाङ्के (19.12.2014) अस्मन्महाविद्यालयेऽपि रा.से.योघटकः कश्चित् स्थापितः । एतेन विद्यार्थिनां यथा प्रयोजनं वर्तते तथा समाजस्यापि । रा.से.योजनेन छात्त्रः यथा स्वतन्त्रतया प्रवर्ध्यते तथा समुदायगततयापि । एतेन छात्त्रस्यात्मनि विश्वासो वर्धते । किञ्चायं नायकत्वप्रयोजकान् गुणान् वर्धयति तथा समाजगतानां नानाविधानां जनानां स्वभावादिविषयकं ज्ञानं जनयति ।


ध्येयवाक्यम्

अस्य ‘not me but you’ (एष जीवामि न मदर्थं किन्तु त्वदर्थम्) इति यद्धेयवाक्यं वर्तते तत्प्रजाप्रभुकशासनस्य मूलभूतं नियमं प्रतिपादयति, परावलम्बनं च ह्रसयति, रा.से.योछात्त्रेषु अन्येषां प्रीतिपूर्वकमभिमानं जनयति तथा अन्येष्वपि जीविषु आदरमुत्पादयति ।


लक्ष्यम्
रा.से.योजनाया लक्ष्यं तावत् इदमस्ति
  1. अन्यसमुदायस्य ज्ञानम्
  2. स्वसमुदायस्य ज्ञानम्
  3. समुदायस्य यदिष्टं यच्च कष्टं तयोरवगमनम् तथा इष्टस्य सम्पादने कष्टस्य च परिहारे आत्मनो व्यापारणम् ।
  4. आत्मनः समाजस्य च यत्कर्तव्यं तस्य ज्ञानम् ।
  5. आत्मनः समाजस्य च ये क्लेशाः तेषां परिहारोपायस्य अवगमनम् ।
  6. समूहेन जीवने तथा तत्समूहे कार्यभारस्य विभजने सामर्थ्यस्य वर्धनम् ।
  7. समूहे एकीभवने उत्सहनम् ।
  8. नायकत्वप्रयोजकानां गुणानामर्जने प्रजाप्रभुशासननियमानां चावगमने प्रवर्तनम् ।
  9. आकस्मिकविपत्तिविषये सहायताविधानम् ।
  10. राष्ट्रैक्ये सामाजिकसामरस्ये च विषये सदा जागरूकीभवनम् ।